|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.165. अध्यायः 165
Mahabharata - Vana Parva - Chapter Topics
इन्द्रादधिगतास्त्रेणार्जुनेन स्वर्गाद्गन्धमादननिवासिनो युधिष्ठिरादीन्प्रत्यागमनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-165-0x(2305)(22326)
तस्मिन्नगेन्द्रे वसतां तु तेषां
महात्मनां सद्व्रतमास्थितानाम्।
रतिः प्रमोदश्च बभूव तेषा-
माकाङ्क्षतां दर्शनमर्जुनस्य ॥ 3-165-1(22327)
तान्वीर्ययुक्तान्सुविशुद्धसत्वां-
स्तेजस्विनः सत्यधृतिप्रधानान्।
संप्रीयमाणा बहवोऽबिजग्मु-
र्गन्धर्वसङ्घाश्च महर्षयश्च ॥ 3-165-2(22328)
तं पादपैः पुष्पफलैरुपेतं
नगोत्तमं प्राप्य महारथानाम्।
मनःप्रसादः परमो बभूव
यथा दिवं प्राप्य मरुद्गणानाम् ॥ 3-165-3(22329)
मयूरहंसस्वननादितानि
पुष्पोपकीर्णानि महाचलस्य।
शृङ्गाणि सानूनि च पश्यमाना
गिरेः परं हर्षमवाप्य तस्थुः ॥ 3-165-4(22330)
साक्षात्कुबेरेण कृताश्च तस्मि-
न्नगोत्तमे संवृतकूटगुल्माः।
कादम्बकारण्डवहंसजुष्टाः
पद्माकुलाः पुष्करिणीरपश्यन् ॥ 3-165-5(22331)
क्रीडाप्रदेशांस्च समृद्धरूपा-
न्सवेदिकांस्ते न्यवसन्सुवेशान्।
मणिप्रकीर्णांश्च मनोरमांश्च
यथा भवेयुर्नदस्य राज्ञः ॥ 3-165-6(22332)
अनेकवर्णैश् सुगन्धिभिश्च
महाद्रुमैः संततमभ्रजालैः।
तपःप्रधानाः सततं चरन्तः
शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥ 3-165-7(22333)
स्वतेजसा तस्य नगोत्तमस्य
महौषधीनां च तथा प्रभावात्।
विभक्तरूपः सविता बभूव
निशामुखं प्राप्य नरर्षभाणाम् ॥ 3-165-8(22334)
यमास्थितः स्थावरजङ्गमानां
विभावसुर्भाविता हरीशः।
तस्योदयं चास्तमनं च वीर-
स्तत्रस्थितास्ते ददृशुर्नृसिंहाः ॥ 3-165-9(22335)
रवेस्तमिस्रागमनिर्गमांस्ते
तथोदयं चास्तमनं च वीराः।
समावृताः प्रेक्ष्य तमोनुदस्य
गभस्तिजालैः प्रदिशो दिशश्च ॥ 3-165-10(22336)
स्वाध्यायवन्तः सततक्रियाश्च
धर्मप्रधानाश्च शुचिव्रताश्च।
सत्ये स्थितास्तस्य महारथस्य
सत्यव्रतस्यागमनप्रतीक्षाः ॥ 3-165-11(22337)
इहैव हर्षोऽस्तु समागतानां
क्षिप्रं कृतास्त्रेण धनंजयेन।
इति ब्रुवन्तः परमाशिपस्ते
पार्थास्तपोयोगपरा बभूवुः ॥ 3-165-12(22338)
दृष्ट्वा विचित्राणि गिरौ वनानि
किरीटिनं चिन्तयतामभीक्ष्णम्।
बभूव राविर्दिवसश्च तेषां
संवत्सरेणैव समानरूपः ॥ 3-165-13(22339)
यदैव धौम्यानुमते महात्मा
कृत्वा जटां प्रव्रजितः स जिष्णुः।
तदैव तेषां नबभूव हर्षः
कुतो रतिस्तद्गतमानसानाम् ॥ 3-165-14(22340)
भ्रातुर्नियोगात्तु युधिष्ठिरस्य
वनादसौ वारणमत्तगामी।
यत्काम्यकात्प्रव्रजितः स जिष्णु-
स्तदैव ते शोकहता बभूवुः ॥ 3-165-15(22341)
तथैव तं चिन्तयतां सिताश्व-
मस्त्रार्थिनं वासवमभ्युपेतम्।
कालः स कृच्छ्रेण महानतीत-
स्तस्मिन्नगे भारत भारतानाम् ॥ 3-165-16(22342)
[उषित्वा पञ्चवर्षाणि सहस्राक्षनिवेशने।
अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात् ॥ 3-165-17(22343)
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्।
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ॥ 3-165-18(22344)
यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य चं।
तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम् ॥ 3-165-19(22345)
अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम्।
आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धपादनम् ॥ 3-165-20(22346)
इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-165-4 महती चला लक्ष्मीः शोभा यस् महाचलस्य। चला लम्यां पुमान् कम्पे इति मेदिनी। सानून्येव तीक्ष्णाग्राणि पुंसंयोग्यानि शृङ्गाणीत्युच्यन्ते ॥ 3-165-9 यं सूर्यम्। विभावसुवैह्निरास्थितः। यस्य सूर्यस्याश्रयेणैव रात्रौ वह्निर्जगद्दीपयति तस्योदयमित्यन्वयः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|